धर्म-अध्यात्म

Shani Sahasranama Stotram : शनिवार के दिन इस उपाय से मिलेगी सफलता का आशीर्वाद

Tara Tandi
20 July 2024 4:56 AM GMT
Shani Sahasranama Stotram : शनिवार के दिन इस उपाय से मिलेगी सफलता का आशीर्वाद
x
Shani Sahasranama Stotram ज्योतिष न्यूज़ : हफ्ते का हर दिन किसी न किसी देवी देवता की पूजा को समर्पित किया गया है वही शनिवार का दिन शनि महाराज की पूजा के लिए उत्तम माना जाता है, इस दिन भक्त शनिदेव की विधिवत पूजा करते हैं और व्रत आदि भी रखते हैं
माना जाता है कि ऐसा करने से शुभ फलों की प्राप्ति होती है लेकिन इसी के साथ ही अगर आज भक्ति भाव से शनि सहस्रनाम स्तोत्र का पाठ किया जाए तो शनि की असीम कृपा बरसती है और सफलता का आशीर्वाद मिलता है।
श्री शनि सहस्रनाम स्तोत्र
अस्य श्री शनैश्चर सहस्रनाम स्तोत्र महामन्त्रस्य ।
काश्यप ऋषिः । अनुष्टुप् छन्दः ।
शनैश्चरो देवता । शम् बीजम् ।
नम् शक्तिः । मम् कीलकम् ।
शनैश्चरप्रसादासिद्ध्यर्थे जपे विनियोगः ।
शनैश्चराय अङ्गुष्ठाभ्यां नमः ।
मन्दगतये तर्जनीभ्यां नमः ।
अधोक्षजाय मध्यमाभ्यां नमः ।
सौरये अनामिकाभ्यां नमः ।
शुष्कोदराय कनिष्ठिकाभ्यां नमः ।
छायात्मजाय करतलकरपृष्ठाभ्यां नमः ।
शनैश्चराय हृदयाय नमः ।
मन्दगतये शिरसे स्वाहा ।
अधोक्षजाय शिखायै वषट् ।
सौरये कवचाय हुम् ।
शुष्कोदराय नेत्रत्रयाय वौषट् ।
छायात्मजाय अस्त्राय फट् ।
भूर्भुवः सुवरोमिति दिग्बन्धः ।
ध्यानम् ।
चापासनो गृध्रधरस्तु नीलः
प्रत्यङ्मुखः काश्यप गोत्रजातः ।
सशूलचापेषु गदाधरोऽव्यात्
सौराष्ट्रदेशप्रभवश्च शौरिः ॥
नीलाम्बरो नीलवपुः किरीटी
गृध्रासनस्थो विकृताननश्च ।
केयूरहारादिविभूषिताङ्गः
सदाऽस्तु मे मन्दगतिः प्रसन्नः ॥
ॐ अमिताभाष्यघहरः अशेषदुरितापहः ।
अघोररूपोऽतिदीर्घकायोऽशेषभयानकः ॥ १॥
अनन्तो अन्नदाता चाश्वत्थमूलजपप्रियः ।
अतिसम्पत्प्रदोऽमोघः अन्यस्तुत्या प्रकोपितः ॥ २॥
अपराजितो अद्वितीयः अतितेजोऽभयप्रदः ।
अष्टमस्थोऽञ्जननिभः अखिलात्मार्कनन्दनः ॥ ३॥
अतिदारुण अक्षोभ्यः अप्सरोभिः प्रपूजितः ।
अभीष्टफलदोऽरिष्टमथनोऽमरपूजितः ॥ ४॥
अनुग्राह्यो अप्रमेय पराक्रम विभीषणः ।
असाध्ययोगो अखिल दोषघ्नः अपराकृतः ॥ ५॥
अप्रमेयोऽतिसुखदः अमराधिपपूजितः ।
अवलोकात् सर्वनाशः अश्वत्थाम द्विरायुधः ॥ ६॥
अपराधसहिष्णुश्च अश्वत्थाम सुपूजितः ।
अनन्तपुण्यफलदो अतृप्तोऽतिबलोऽपि च ॥ ७॥
अवलोकात् सर्ववन्द्यः अक्षीणकरुणानिधिः ।
अविद्यामूलनाशश्च अक्षय्यफलदायकः ॥ ८॥
आनन्दपरिपूर्णश्च आयुष्कारक एव च ।
आश्रितेष्टार्थवरदः आधिव्याधिहरोऽपि च ॥ ९॥
आनन्दमय आनन्दकरो आयुधधारकः ।
आत्मचक्राधिकारी च आत्मस्तुत्यपरायणः ॥ १०॥
आयुष्करो आनुपूर्व्यः आत्मायत्तजगत्त्रयः ।
आत्मनामजपप्रीतः आत्माधिकफलप्रदः ॥ ११॥
आदित्यसंभवो आर्तिभञ्जनो आत्मरक्षकः ।
आपद्बान्धव आनन्दरूपो आयुःप्रदोऽपि च ॥ १२॥
आकर्णपूर्णचापश्च आत्मोद्दिष्ट द्विजप्रदः ।
आनुकूल्यो आत्मरूप प्रतिमादान सुप्रियः ॥ १३॥
आत्मारामो आदिदेवो आपन्नार्ति विनाशनः ।
इन्दिरार्चितपादश्च इन्द्रभोगफलप्रदः ॥ १४॥
इन्द्रदेवस्वरूपश्च इष्टेष्टवरदायकः ।
इष्टापूर्तिप्रद इन्दुमतीष्टवरदायकः ॥ १५॥
इन्दिरारमणप्रीत इन्द्रवंशनृपार्चितः ।
इहामुत्रेष्टफलद इन्दिरारमणार्चितः ॥ १६॥
ईद्रिय ईश्वरप्रीत ईषणात्रयवर्जितः ।
उमास्वरूप उद्बोध्य उशना उत्सवप्रियः ॥ १७॥
उमादेव्यर्चनप्रीत उच्चस्थोच्चफलप्रदः ।
उरुप्रकाश उच्चस्थ योगद उरुपराक्रमः ॥ १८॥
ऊर्ध्वलोकादिसञ्चारी ऊर्ध्वलोकादिनायकः ।
ऊर्जस्वी ऊनपादश्च ऋकाराक्षरपूजितः ॥ १९॥
ऋषिप्रोक्त पुराणज्ञ ऋषिभिः परिपूजितः ।
ऋग्वेदवन्द्य ऋग्रूपी ऋजुमार्ग प्रवर्तकः ॥ २०॥
लुळितोद्धारको लूत भवपाशप्रभञ्जनः ।
लूकाररूपको लब्धधर्ममार्गप्रवर्तकः ॥ २१॥
Next Story