धर्म-अध्यात्म

भाद्रपद अमावस्या पर करें ये उपाय, हमेशा भरे रहेंगे धन के भंडार

Tara Tandi
14 Sep 2023 9:55 AM GMT
भाद्रपद अमावस्या  पर करें ये उपाय, हमेशा भरे रहेंगे धन के भंडार
x
हिंदू धर्म में अमावस्या तिथि को विशेष माना गया है जो कि हर माह में एक बार पड़ती है अभी भाद्रपद मास चल रहा है और इस माह की अमावस्या को भाद्रपद अमावस्या के नाम से जाना जा रहा है जो कि आज यानी 14 सितंबर दिन गुरुवार को पड़ी है इस दिन स्नान दान और पूजा पाठ का विशेष विधान होता है मान्यता है कि ऐसा करने से देवी देवताओं की कृपा प्राप्त होती है इसी के साथ ही अमावस्या के दिन पूर्वजों का श्राद्ध तर्पण और पिंडदान भी किया जाता है
इससे पितृदोष दूर हो जाते है लेकिन इसी के साथ ही अगर अमावस्या के दिन माता लक्ष्मी की विधि विधान से पूजा कर उनके प्रिय श्री लक्ष्मी ह्रदय स्तोत्रम् का पाठ किया जाए तो देवी मां की कृपा प्राप्त होती है जिससे घर में धन का भंडार कभी खाली नहीं होता है तो आज हम आपके लिए लेकर आए है श्री लक्ष्मी ह्रदय स्तोत्र पाठ।
श्री लक्ष्मी ह्रदय स्तोत्रम्—
। ॐ श्रीं ह्रीं ऐम् ।
वन्दे लक्ष्मीं परशिवमयीं शुद्धजाम्बूनदाभां
तेजोरूपां कनक-वसनां सर्वभूषोज्ज्वलाङ्गीम् ।
बीजापूरं कनक-कलशं हेमपद्मं दधानाम्
आद्यां शक्तिं सकलजननीं विष्णु-वामाङ्कसंस्थाम् ॥ १॥
श्रीमत्सौभाग्यजननीं स्तौमि लक्ष्मीं सनातनीम् ।
सर्वकाम-फलावाप्ति-साधनैक-सुखावहाम् ॥ २॥
स्मरामि नित्यं देवेशि त्वया प्रेरितमानसः ।
त्वदाज्ञां शिरसा धृत्वा भजामि परमेश्वरीम् ॥ ३॥
समस्त-सम्पत्सुखदां महाश्रियं
समस्त-कल्याणकरीं महाश्रियम् ।
समस्त-सौभाग्यकरीं महाश्रियं
भजाम्यहं ज्ञानकरीं महाश्रियम् ॥ ४॥
विज्ञानसम्पत्सुखदां महाश्रियं
विचित्र-वाग्भूतिकरीं मनोहराम् ।
अनन्त-सौभाग्य-सुखप्रदायिनीं
नमाम्यहं भूतिकरीं हरिप्रियाम् ॥ ५॥
समस्त-भूतान्तरसंस्थिता त्वं
समस्त-भक्तेश्श्वरि विश्वरूपे ।
तन्नास्ति यत्त्वद्व्यतिरिक्तवस्तु
त्वत्पादपद्मं प्रणमाम्यहं श्रीः ॥ ६॥
दारिद्र्य-दुःखौघ-तमोऽपहन्त्रि त्वत्-पादपद्मं मयि सन्निधत्स्व ।
दीनार्ति-विच्छेदन-हेतुभूतैः कृपाकटाक्षैरभिषिञ्च मां श्रीः ॥ ७॥
विष्णु-स्तुतिपरां लक्ष्मीं स्वर्णवर्णां स्तुति-प्रियाम् ।
वरदाभयदां देवीं वन्दे त्वां कमलेक्षणे ॥ ८॥
अम्ब प्रसीद करुणा-परिपूर्ण-दृष्ट्या
मां त्वत्कृपाद्रविणगेहमिमं कुरुष्व ।
आलोकय प्रणत-हृद्गत-शोकहन्त्रि
त्वत्पाद-पद्मयुगलं प्रणमाम्यहं श्रीः ॥ ९॥
शान्त्यै नमोऽस्तु शरणागत-रक्षणायै
कान्त्यै नमोऽस्तु कमनीय-गुणाश्रयायै ।
क्षान्त्यै नमोऽस्तु दुरितक्षय-कारणायै
धात्र्यै नमोऽस्तु धन-धान्य-समृद्धिदायै ॥ १०॥
शक्त्यै नमोऽस्तु शशिशेखर-संस्थितायै
रत्यै नमोऽस्तु रजनीकर-सोदरायै ।
भक्त्यै नमोऽस्तु भवसागर-तारकायै
मत्यै नमोऽस्तु मधुसूदन-वल्लभायै ॥ ११॥
लक्ष्म्यै नमोऽस्तु शुभ-लक्षण-लक्षितायै
सिद्ध्यै नमोऽस्तु सुर-सिद्ध-सुपूजितायै ।
धृत्यै नमोऽस्तु मम दुर्गति-भञ्जनायै
गत्यै नमोऽस्तु वरसद्गति-दायकायै ॥ १२॥
देव्यै नमोऽस्तु दिवि देवगणार्चितायै
भूत्यै नमोऽस्तु भुवनार्ति-विनाशनायै ।
शान्त्यै नमोऽस्तु धरणीधर-वल्लभायै
पुष्ट्यै नमोऽस्तु पुरुषोत्तम-वल्लभायै ॥ १३॥
सुतीव्र-दारिद्र्य-तमोऽपहन्त्र्यै नमोऽस्तु ते सर्व-भयापहन्त्र्यै ।
श्रीविष्णु-वक्षःस्थल-संस्थितायै नमो नमः सर्व-विभूति-दायै ॥ १४॥
जयतु जयतु लक्ष्मीः लक्षणालङ्कृताङ्गी
जयतु जयतु पद्मा पद्मसद्माभिवन्द्या ।
जयतु जयतु विद्या विष्णु-वामाङ्क-संस्था
जयतु जयतु सम्यक् सर्व-सम्पत्करी श्रीः ॥ १५॥
जयतु जयतु देवी देवसङ्घाभिपूज्या
जयतु जयतु भद्रा भार्गवी भाग्यरूपा ।
जयतु जयतु नित्या निर्मलज्ञानवेद्या
जयतु जयतु सत्या सर्वभूतान्तरस्था ॥ १६॥
जयतु जयतु रम्या रत्नगर्भान्तरस्था
जयतु जयतु शुद्धा शुद्धजाम्बूनदाभा ।
जयतु जयतु कान्ता कान्तिमद्भासिताङ्गी
जयतु जयतु शान्ता शीघ्रमागच्छ सौम्ये ॥ १७॥
यस्याः कलायाः कमलोद्भवाद्या रुद्राश्च शक्रप्रमुखाश्च देवाः ।
जीवन्ति सर्वेऽपि सशक्तयस्ते प्रभुत्वमाप्ताः परमायुषस्ते ॥ १८॥
॥ मुखबीजम् ॥ ॐ-ह्रां-ह्रीं-अं-आं-यं-दुं-लं-वम् ॥
लिलेख निटिले विधिर्मम लिपिं विसृज्यान्तरं
त्वया विलिखितव्यमेतदिति तत्फलप्राप्तये ।
तदन्तिकफलस्फुटं कमलवासिनि श्रीरिमां
समर्पय स्वमुद्रिकां सकलभाग्यसंसूचिकाम् ॥ १९॥
॥ पादबीजम् ॥ ॐ-अं-आं-ईं-एं-ऐं-कं-लं-रं ॥
कलया ते यथा देवि जीवन्ति सचराचराः ।
तथा सम्पत्करी लक्ष्मि सर्वदा सम्प्रसीद मे ॥ २०॥
यथा विष्णुर्ध्रुवं नित्यं स्वकलां संन्यवेशयत् ।
तथैव स्वकलां लक्ष्मि मयि सम्यक् समर्पय ॥ २१॥
सर्वसौख्यप्रदे देवि भक्तानामभयप्रदे ।
अचलां कुरु यत्नेन कलां मयि निवेशिताम् ॥ २२॥
मुदास्तां मत्फाले परमपदलक्ष्मीः स्फुटकला
सदा वैकुण्ठश्रीर्निवसतु कला मे नयनयोः ।
वसेत्सत्ये लोके मम वचसि लक्ष्मीर्वरकला
श्रियश्वेतद्वीपे निवसतु कला मे स्व-करयोः ॥ २३॥
॥ नेत्रबीजम् ॥ ॐ-घ्रां-घ्रीं-घ्रें-घ्रैं-घ्रों-घ्रौं-घ्रं-घ्रः ॥
तावन्नित्यं ममाङ्गेषु क्षीराब्धौ श्रीकला वसेत् ।
सूर्याचन्द्रमसौ यावद्यावल्लक्ष्मीपतिः श्रियौ ॥ २४॥
सर्वमङ्गलसम्पूर्णा सर्वैश्वर्यसमन्विता ।
आद्याऽऽदिश्रीर्महालक्ष्मीस्त्वत्कला मयि तिष्ठतु ॥ २५॥
अज्ञानतिमिरं हन्तुं शुद्धज्ञानप्रकाशिका ।
सर्वैश्वर्यप्रदा मेऽस्तु त्वत्कला मयि संस्थिता ॥ २६॥
अलक्ष्मीं हरतु क्षिप्रं तमः सूर्यप्रभा यथा ।
वितनोतु मम श्रेयस्त्वत्कला मयि संस्थिता ॥ २७॥
ऐश्वर्यमङ्गलोत्पत्तिः त्वत्कलायां निधीयते ।
मयि तस्मात्कृतार्थोऽस्मि पात्रमस्मि स्थितेस्तव ॥ २८॥
भवदावेशभाग्यार्हो भाग्यवानस्मि भार्गवि ।
त्वत्प्रसादात्पवित्रोऽहं लोकमातर्नमोऽस्तु ते ॥ २९॥
पुनासि मां त्वत्कलयैव यस्मात्
अतस्समागच्छ ममाग्रतस्त्वम् ।
परं पदं श्रीर्भव सुप्रसन्ना
मय्यच्युतेन प्रविशादिलक्ष्मीः ॥ ३०॥
श्रीवैकुण्ठस्थिते लक्ष्मि समागच्छ ममाग्रतः ।
नारायणेन सह मां कृपादृष्ट्याऽवलोकय ॥ ३१॥
सत्यलोकस्थिते लक्ष्मि त्वं ममागच्छ सन्निधिम् ।
वासुदेवेन सहिता प्रसीद वरदा भव ॥ ३२॥
श्वेतद्वीपस्थिते लक्ष्मि शीघ्रमागच्छ सुव्रते ।
विष्णुना सहिता देवि जगन्मातः प्रसीद मे ॥ ३३॥
क्षीराम्बुधिस्थिते लक्ष्मि समागच्छ समाधवे ।
त्वत्कृपादृष्टिसुधया सततं मां विलोकय ॥ ३४॥
रत्नगर्भस्थिते लक्ष्मि परिपूर्णहिरण्मयि ।
समागच्छ समागच्छ स्थित्वाऽऽशु पुरतो मम ॥ ३५॥
स्थिरा भव महालक्ष्मि निश्चला भव निर्मले ।
प्रसन्नकमले देवि प्रसन्नहृदया भव ॥ ३६॥
श्रीधरे श्रीमहालक्ष्मि त्वदन्तःस्थं महानिधिम् ।
शीघ्रमुद्धृत्य पुरतः प्रदर्शय समर्पय ॥ ३७॥
वसुन्धरे श्रीवसुधे वसुदोग्ध्रि कृपामयि ।
त्वत्कुक्षिगतसर्वस्वं शीघ्रं मे सम्प्रदर्शय ॥ ३८॥
विष्णुप्रिये रत्नगर्भे समस्तफलदे शिवे ।
त्वद्गर्भगतहेमादीन् सम्प्रदर्शय दर्शय ॥ ३९॥
रसातलगते लक्ष्मि शीघ्रमागच्छ मे पुरः ।
न जाने परमं रूपं मातर्मे सम्प्रदर्शय ॥ ४०॥
आविर्भव मनोवेगात् शीघ्रमागच्छ मे पुरः ।
मा वत्स भैरिहेत्युक्त्वा कामं गौरिव रक्ष माम् ॥ ४१॥
देवि शीघ्रं समागच्छ धरणीगर्भसंस्थिते ।
मातस्त्वद्भृत्यभृत्योऽहं मृगये त्वां कुतूहलात् ॥ ४२॥
उत्तिष्ठ जागृहि त्वं मे समुत्तिष्ठ सुजागृहि ।
अक्षयान् हेमकलशान् सुवर्णेन सुपूरितान् ॥ ४३॥
निक्षेपान्मे समाकृष्य समुद्धृत्य ममाग्रतः ।
समुन्नतानना भूत्वा सम्यग्धेहि धरातलात् ॥ ४४॥
मत्सन्निधिं समागच्छ मदाहितकृपारसात् ।
प्रसीद श्रेयसां दोग्ध्रि लक्ष्मि मे नयनाग्रतः ॥ ४५॥
अत्रोपविश्य लक्ष्मि त्वं स्थिरा भव हिरण्मयी ।
सुस्थिरा भव सम्प्रीत्या प्रसन्ना वरदा भव ॥ ४६॥
आनीतांस्तु त्वया देवि निधीन्मे सम्प्रदर्शय ।
अद्य क्षणेन सहसा दत्त्वा संरक्ष मां सदा ॥ ४७॥
मयि तिष्ठ तथा नित्यं यथेन्द्रादिषु तिष्ठसि ।
अभयं कुरु मे देवि महालक्ष्मि नमोऽस्तु ते ॥ ४८॥
समागच्छ महालक्ष्मि शुद्धजाम्बूनद-स्थिते ।
प्रसीद पुरतः स्थित्वा प्रणतं मां विलोकय ॥ ४९॥
लक्ष्मीर्भुवं गता भासि यत्र यत्र हिरण्मयी ।
तत्र तत्र स्थिता त्वं मे तव रूपं प्रदर्शय ॥ ५०॥
क्रीडन्ती बहुधा भूमौ परिपूर्णकृपा मयि ।
मम मूर्धनि ते हस्तमविलम्बितमर्पय ॥ ५१॥
फलद्भाग्योदये लक्ष्मि समस्तपुरवासिनि ।
प्रसीद मे महालक्ष्मि परिपूर्णमनोरथे ॥ ५२॥
अयोध्यादिषु सर्वेषु नगरेषु समास्थिते ।
विभवैर्विविधैर्युक्तैः समागच्छ मुदान्विते ॥ ५३॥
समागच्छ समागच्छ ममाग्रे भव सुस्थिरा ।
करुणारसनिष्यन्दनेत्रद्वयविशालिनि ॥ ५४॥
सन्निधत्स्व महालक्ष्मि त्वत्पाणिं मम मस्तके ।
करुणासुधया मां त्वमभिषिच्य स्थिरं कुरु ॥ ५५॥
सर्वराजगृहे लक्ष्मि समागच्छ बलान्विते ।
स्थित्वाऽऽशु पुरतो मेऽद्य प्रसादेनाभयं कुरु ॥ ५६॥
सादरं मस्तके हस्तं मम त्वं कृपयाऽर्पय ।
सर्वराजस्थिते लक्ष्मि त्वत्कला मयि तिष्ठतु ॥ ५७॥
आद्यादि श्रीर्महालक्ष्मि विष्णुवामाङ्कसंस्थिते ।
प्रत्यक्षं कुरु मे रूपं रक्ष मां शरणागतम् ॥ ५८॥
प्रसीद मे महालक्ष्मि सुप्रसीद महाशिवे ।
अचला भव सुप्रीता सुस्थिरा भव मद्गृहे ॥ ५९॥
यावत्तिष्ठन्ति वेदाश्च यावच्चन्द्र-दिवाकरौ ।
यावद्विष्णुश्च यावत्त्वं तावत्कुरु कृपां मयि ॥ ६०॥
चान्द्री कला यथा शुक्ले वर्धते सा दिने दिने ।
तथा दया ते मय्येव वर्धतामभिवर्धताम् ॥ ६१॥
यथा वैकुण्ठनगरे यथा वै क्षीरसागरे ।
तथा मद्भवने तिष्ठ स्थिरं श्रीविष्णुना सह ॥ ६२॥
योगिनां हृदये नित्यं यथा तिष्ठसि विष्णुना ।
तथा मद्भवने तिष्ठ स्थिरं श्रीविष्णुना सह ॥ ६३॥
नारायणस्य हृदये भवती यथाऽऽस्ते
नारायणोऽपि तव हृत्कमले यथाऽऽस्ते ।
नारायणस्त्वमपि नित्यविभू तथैव
तौ तिष्ठतां हृदि ममापि दयान्वितौ श्रीः ॥ ६४॥
विज्ञानवृद्धिं हृदये कुरु श्रीः सौभाग्यवृद्धिं कुरु मे गृहे श्रीः ।
दयासुवृद्धिं कुरुतां मयि श्रीः सुवर्णवृद्धिं कुरु मे गृहे श्रीः ॥ ६५॥
न मां त्यजेथाः श्रितकल्पवल्लि सद्भक्ति-चिन्तामणि-कामधेनो ।
न मां त्यजेथा भव सुप्रसन्ने गृहे कलत्रेषु च पुत्रवर्गे ॥ ६६॥
Next Story