शनिवार को करें ये आसान उपाय ,कर्ज से मिलेगा छुटकारा

Update: 2024-05-25 06:07 GMT
ज्योतिष न्यूज़  : आज शनिवार का दिन है जो कि शनि महाराज की पूजा को समर्पित किया गया है इस दिन शनिदेव की विधिवत पूजा की जाती है और व्रत आदि भी रखा जाता है मान्यता है कि ऐसा करने से शनिदेव का आशीर्वाद मिलता है लेकिन अगर आप कर्ज से छुटकारा पाना चाहते हैं तो शनिवार के दिन श्री शनि सहस्रनाम स्तोत्र का पाठ भक्ति भाव से करें माना जाता है कि ऐसा करने से आर्थिक समस्याओं से मुक्ति मिल जाती है।
 श्री शनि सहस्रनाम स्तोत्र
अस्य श्री शनैश्चर सहस्रनाम स्तोत्र महामन्त्रस्य ।
काश्यप ऋषिः । अनुष्टुप् छन्दः ।
शनैश्चरो देवता । शम् बीजम् ।
नम् शक्तिः । मम् कीलकम् ।
शनैश्चरप्रसादासिद्ध्यर्थे जपे विनियोगः ।
शनैश्चराय अङ्गुष्ठाभ्यां नमः ।
मन्दगतये तर्जनीभ्यां नमः ।
अधोक्षजाय मध्यमाभ्यां नमः ।
सौरये अनामिकाभ्यां नमः ।
शुष्कोदराय कनिष्ठिकाभ्यां नमः ।
छायात्मजाय करतलकरपृष्ठाभ्यां नमः ।
शनैश्चराय हृदयाय नमः ।
मन्दगतये शिरसे स्वाहा ।
अधोक्षजाय शिखायै वषट् ।
सौरये कवचाय हुम् ।
शुष्कोदराय नेत्रत्रयाय वौषट् ।
छायात्मजाय अस्त्राय फट् ।
भूर्भुवः सुवरोमिति दिग्बन्धः ।
ध्यानम् ।
चापासनो गृध्रधरस्तु नीलः
प्रत्यङ्मुखः काश्यप गोत्रजातः ।
सशूलचापेषु गदाधरोऽव्यात्
सौराष्ट्रदेशप्रभवश्च शौरिः ॥
नीलाम्बरो नीलवपुः किरीटी
गृध्रासनस्थो विकृताननश्च ।
केयूरहारादिविभूषिताङ्गः
सदाऽस्तु मे मन्दगतिः प्रसन्नः ॥
ॐ अमिताभाष्यघहरः अशेषदुरितापहः ।
अघोररूपोऽतिदीर्घकायोऽशेषभयानकः ॥ १॥
अनन्तो अन्नदाता चाश्वत्थमूलजपप्रियः ।
अतिसम्पत्प्रदोऽमोघः अन्यस्तुत्या प्रकोपितः ॥ २॥
अपराजितो अद्वितीयः अतितेजोऽभयप्रदः ।
अष्टमस्थोऽञ्जननिभः अखिलात्मार्कनन्दनः ॥ ३॥
अतिदारुण अक्षोभ्यः अप्सरोभिः प्रपूजितः ।
अभीष्टफलदोऽरिष्टमथनोऽमरपूजितः ॥ ४॥
अनुग्राह्यो अप्रमेय पराक्रम विभीषणः ।
असाध्ययोगो अखिल दोषघ्नः अपराकृतः ॥ ५॥
अप्रमेयोऽतिसुखदः अमराधिपपूजितः ।
अवलोकात् सर्वनाशः अश्वत्थाम द्विरायुधः ॥ ६॥
अपराधसहिष्णुश्च अश्वत्थाम सुपूजितः ।
अनन्तपुण्यफलदो अतृप्तोऽतिबलोऽपि च ॥ ७॥
अवलोकात् सर्ववन्द्यः अक्षीणकरुणानिधिः ।
अविद्यामूलनाशश्च अक्षय्यफलदायकः ॥ ८॥
आनन्दपरिपूर्णश्च आयुष्कारक एव च ।
आश्रितेष्टार्थवरदः आधिव्याधिहरोऽपि च ॥ ९॥
आनन्दमय आनन्दकरो आयुधधारकः ।
आत्मचक्राधिकारी च आत्मस्तुत्यपरायणः ॥ १०॥
आयुष्करो आनुपूर्व्यः आत्मायत्तजगत्त्रयः ।
आत्मनामजपप्रीतः आत्माधिकफलप्रदः ॥ ११॥
आदित्यसंभवो आर्तिभञ्जनो आत्मरक्षकः ।
आपद्बान्धव आनन्दरूपो आयुःप्रदोऽपि च ॥ १२॥
आकर्णपूर्णचापश्च आत्मोद्दिष्ट द्विजप्रदः ।
आनुकूल्यो आत्मरूप प्रतिमादान सुप्रियः ॥ १३॥
आत्मारामो आदिदेवो आपन्नार्ति विनाशनः ।
इन्दिरार्चितपादश्च इन्द्रभोगफलप्रदः ॥ १४॥
इन्द्रदेवस्वरूपश्च इष्टेष्टवरदायकः ।
इष्टापूर्तिप्रद इन्दुमतीष्टवरदायकः ॥ १५॥
इन्दिरारमणप्रीत इन्द्रवंशनृपार्चितः ।
इहामुत्रेष्टफलद इन्दिरारमणार्चितः ॥ १६॥
ईद्रिय ईश्वरप्रीत ईषणात्रयवर्जितः ।
उमास्वरूप उद्बोध्य उशना उत्सवप्रियः ॥ १७॥
उमादेव्यर्चनप्रीत उच्चस्थोच्चफलप्रदः ।
उरुप्रकाश उच्चस्थ योगद उरुपराक्रमः ॥ १८॥
ऊर्ध्वलोकादिसञ्चारी ऊर्ध्वलोकादिनायकः ।
ऊर्जस्वी ऊनपादश्च ऋकाराक्षरपूजितः ॥ १९॥
ऋषिप्रोक्त पुराणज्ञ ऋषिभिः परिपूजितः ।
ऋग्वेदवन्द्य ऋग्रूपी ऋजुमार्ग प्रवर्तकः ॥ २०॥
लुळितोद्धारको लूत भवपाशप्रभञ्जनः ।
लूकाररूपको लब्धधर्ममार्गप्रवर्तकः ॥ २१॥
एकाधिपत्यसाम्राज्यप्रद एनौघनाशनः ।
एकपाद्येक एकोनविंशतिमासभुक्तिदः ॥ २२॥
एकोनविंशतिवर्षदश एणाङ्कपूजितः ।
ऐश्वर्यफलद ऐन्द्र ऐरावतसुपूजितः ॥ २३॥
ओंकार जपसुप्रीत ओंकार परिपूजितः ।
ओंकारबीज औदार्य हस्त औन्नत्यदायकः ॥ २४॥
औदार्यगुण औदार्य शील औषधकारकः ।
करपङ्कजसन्नद्धधनुश्च करुणानिधिः ॥ २५॥
कालः कठिनचित्तश्च कालमेघसमप्रभः ।
किरीटी कर्मकृत् कारयिता कालसहोदरः ॥ २६॥
कालाम्बरः काकवाहः कर्मठः काश्यपान्वयः ।
कालचक्रप्रभेदी च कालरूपी च कारणः ॥ २७॥
कारिमूर्तिः कालभर्ता किरीटमकुटोज्वलः ।
कार्यकारण कालज्ञः काञ्चनाभरथान्वितः ॥ २८॥
कालदंष्ट्रः क्रोधरूपः कराळी कृष्णकेतनः ।
कालात्मा कालकर्ता च कृतान्तः कृष्णगोप्रियः ॥ २९॥
कालाग्निरुद्ररूपश्च काश्यपात्मजसम्भवः ।
कृष्णवर्णहयश्चैव कृष्णगोक्षीरसुप्रियः ॥ ३०॥
कृष्णगोघृतसुप्रीतः कृष्णगोदधिषुप्रियः ।
कृष्णगावैकचित्तश्च कृष्णगोदानसुप्रियः ॥ ३१॥
कृष्णगोदत्तहृदयः कृष्णगोरक्षणप्रियः ।
कृष्णगोग्रासचित्तस्य सर्वपीडानिवारकः ॥ ३२॥
कृष्णगोदान शान्तस्य सर्वशान्ति फलप्रदः ।
कृष्णगोस्नान कामस्य गङ्गास्नान फलप्रदः ॥ ३३॥
कृष्णगोरक्षणस्याशु सर्वाभीष्टफलप्रदः ।
कृष्णगावप्रियश्चैव कपिलापशुषु प्रियः ॥ ३४॥
कपिलाक्षीरपानस्य सोमपानफलप्रदः ।
कपिलादानसुप्रीतः कपिलाज्यहुतप्रियः ॥ ३५॥
कृष्णश्च कृत्तिकान्तस्थः कृष्णगोवत्ससुप्रियः ।
कृष्णमाल्याम्बरधरः कृष्णवर्णतनूरुहः ॥ ३६॥
कृष्णकेतुः कृशकृष्णदेहः कृष्णाम्बरप्रियः ।
क्रूरचेष्टः क्रूरभावः क्रूरदंष्ट्रः कुरूपि च ॥ ३७॥
कमलापति संसेव्यः कमलोद्भवपूजितः ।
कामितार्थप्रदः कामधेनु पूजनसुप्रियः ॥ ३८॥
कामधेनुसमाराध्यः कृपायुष विवर्धनः ।
कामधेन्वैकचित्तश्च कृपराज सुपूजितः ॥ ३९॥
do these easy upay on Saturday puja
कामदोग्धा च क्रुद्धश्च कुरुवंशसुपूजितः ।
कृष्णाङ्गमहिषीदोग्धा कृष्णेन कृतपूजनः ॥ ४०॥
कृष्णाङ्गमहिषीदानप्रियः कोणस्थ एव च ।
कृष्णाङ्गमहिषीदानलोलुपः कामपूजितः ॥ ४१॥
क्रूरावलोकनात्सर्वनाशः कृष्णाङ्गदप्रियः ।
खद्योतः खण्डनः खड्गधरः खेचरपूजितः ॥ ४२॥
खरांशुतनयश्चैव खगानां पतिवाहनः ।
गोसवासक्तहृदयो गोचरस्थानदोषहृत् ॥ ४३॥
गृहराश्याधिपश्चैव गृहराज महाबलः ।
गृध्रवाहो गृहपतिर्गोचरो गानलोलुपः ॥ ४४॥
घोरो घर्मो घनतमा घर्मी घनकृपान्वितः ।
घननीलाम्बरधरो ङादिवर्ण सुसंज्ञितः ॥ ४५॥
चक्रवर्तिसमाराध्यश्चन्द्रमत्या समर्चितः ।
चन्द्रमत्यार्तिहारी च चराचर सुखप्रदः ॥ ४६॥
चतुर्भुजश्चापहस्तश्चराचरहितप्रदः ।
छायापुत्रश्छत्रधरश्छायादेवीसुतस्तथा ॥ ४७॥
जयप्रदो जगन्नीलो जपतां सर्वसिद्धिदः ।
जपविध्वस्तविमुखो जम्भारिपरिपूजितः ॥ ४८॥
जम्भारिवन्द्यो जयदो जगज्जनमनोहरः ।
जगत्त्रयप्रकुपितो जगत्त्राणपरायणः ॥ ४९॥
जयो जयप्रदश्चैव जगदानन्दकारकः ।
ज्योतिश्च ज्योतिषां श्रेष्ठो ज्योतिःशास्त्र प्रवर्तकः ॥ ५०॥
झर्झरीकृतदेहश्च झल्लरीवाद्यसुप्रियः ।
ज्ञानमूर्तिर्ज्ञानगम्यो ज्ञानी ज्ञानमहानिधिः ॥ ५१॥
ज्ञानप्रबोधकश्चैव ज्ञानदृष्ट्यावलोकितः ।
टङ्किताखिललोकश्च टङ्कितैनस्तमोरविः ॥ ५२॥
टङ्कारकारकश्चैव टङ्कृतो टाम्भदप्रियः ।
ठकारमय सर्वस्वष्ठकारकृतपूजितः ॥ ५३॥
ढक्कावाद्यप्रीतिकरो डमड्डमरुकप्रियः ।
डम्बरप्रभवो डम्भो ढक्कानादप्रियङ्करः ॥ ५४॥
डाकिनी शाकिनी भूत सर्वोपद्रवकारकः ।
डाकिनी शाकिनी भूत सर्वोपद्रवनाशकः ॥ ५५॥
ढकाररूपो ढाम्भीको णकारजपसुप्रियः ।
णकारमयमन्त्रार्थो णकारैकशिरोमणिः ॥ ५६॥
णकारवचनानन्दो णकारकरुणामयः ।
णकारमय सर्वस्वो णकारैकपरायणः ॥ ५७॥
तर्जनीधृतमुद्रश्च तपसां फलदायकः ।
त्रिविक्रमनुतश्चैव त्रयीमयवपुर्धरः ॥ ५८॥
तपस्वी तपसा दग्धदेहस्ताम्राधरस्तथा ।
त्रिकालवेदितव्यश्च त्रिकालमतितोषितः ॥ ५९॥
तुलोच्चयस्त्रासकरस्तिलतैलप्रियस्तथा ।
तिलान्न सन्तुष्टमनास्तिलदानप्रियस्तथा ॥ ६०॥
तिलभक्ष्यप्रियश्चैव तिलचूर्णप्रियस्तथा ।
तिलखण्डप्रियश्चैव तिलापूपप्रियस्तथा ॥ ६१॥
तिलहोमप्रियश्चैव तापत्रयनिवारकः ।
तिलतर्पणसन्तुष्टस्तिलतैलान्नतोषितः ॥ ६२॥
तिलैकदत्तहृदयस्तेजस्वी तेजसान्निधिः ।
तेजसादित्यसङ्काशस्तेजोमय वपुर्धरः ॥ ६३॥
तत्त्वज्ञस्तत्त्वगस्तीव्रस्तपोरूपस्तपोमयः ।
तुष्टिदस्तुष्टिकृत् तीक्ष्णस्त्रिमूर्तिस्त्रिगुणात्मकः ॥ ६४॥
तिलदीपप्रियश्चैव तस्य पीडानिवारकः ।
तिलोत्तमामेनकादिनर्तनप्रिय एव च ॥ ६५॥
त्रिभागमष्टवर्गश्च स्थूलरोमा स्थिरस्तथा ।
स्थितः स्थायी स्थापकश्च स्थूलसूक्ष्मप्रदर्शकः ॥ ६६॥
दशरथार्चितपादश्च दशरथस्तोत्रतोषितः ।
दशरथ प्रार्थनाकॢप्त दुर्भिक्ष विनिवारकः ॥ ६७॥
do these easy upay on Saturday puja
दशरथ प्रार्थनाकॢप्त वरद्वय प्रदायकः ।
दशरथस्वात्मदर्शी च दशरथाभीष्टदायकः ॥ ६८॥
दोर्भिर्धनुर्धरश्चैव दीर्घश्मश्रुजटाधरः ।
दशरथस्तोत्रवरदो दशरथाभीप्सितप्रदः ॥ ६९॥
दशरथस्तोत्रसन्तुष्टो दशरथेन सुपूजितः ।
द्वादशाष्टमजन्मस्थो देवपुङ्गवपूजितः ॥ ७०॥
देवदानवदर्पघ्नो दिनं प्रतिमुनिस्तुतः ।
द्वादशस्थो द्वादशात्मा सुतो द्वादश नामभृत् ॥ ७१॥
द्वितीयस्थो द्वादशार्कसूनुर्दैवज्ञपूजितः ।
दैवज्ञचित्तवासी च दमयन्त्या सुपूजितः ॥ ७२॥
द्वादशाब्दंतु दुर्भिक्षकारी दुःस्वप्ननाशनः ।
दुराराध्यो दुराधर्षो दमयन्ती वरप्रदः ॥ ७३॥
दुष्टदूरो दुराचार शमनो दोषवर्जितः ।
दुःसहो दोषहन्ता च दुर्लभो दुर्गमस्तथा ॥ ७४॥
दुःखप्रदो दुःखहन्ता दीप्तरञ्जित दिङ्मुखः ।
दीप्यमान मुखाम्भोजो दमयन्त्याः शिवप्रदः ॥ ७५॥
दुर्निरीक्ष्यो दृष्टमात्र दैत्यमण्डलनाशकः ।
द्विजदानैकनिरतो द्विजाराधनतत्परः ॥ ७६॥
द्विजसर्वार्तिहारी च द्विजराज समर्चितः ।
द्विजदानैकचित्तश्च द्विजराज प्रियङ्करः ॥ ७७॥
द्विजो द्विजप्रियश्चैव द्विजराजेष्टदायकः ।
द्विजरूपो द्विजश्रेष्ठो दोषदो दुःसहोऽपि च ॥ ७८॥
देवादिदेवो देवेशो देवराज सुपूजितः ।
देवराजेष्ट वरदो देवराज प्रियङ्करः ॥ ७९॥
देवादिवन्दितो दिव्यतनुर्देवशिखामणिः ।
देवगानप्रियश्चैव देवदेशिकपुङ्गवः ॥ ८०॥
द्विजात्मजासमाराध्यो ध्येयो धर्मी धनुर्धरः ।
धनुष्मान् धनदाता च धर्माधर्मविवर्जितः ॥ ८१॥
धर्मरूपो धनुर्दिव्यो धर्मशास्त्रात्मचेतनः ।
धर्मराज प्रियकरो धर्मराज सुपूजितः ॥ ८२॥
धर्मराजेष्टवरदो धर्माभीष्टफलप्रदः ।
नित्यतृप्तस्वभावश्च नित्यकर्मरतस्तथा ॥ ८३॥
निजपीडार्तिहारी च निजभक्तेष्टदायकः ।
निर्मासदेहो नीलश्च निजस्तोत्र बहुप्रियः ॥ ८४॥
नळस्तोत्र प्रियश्चैव नळराजसुपूजितः ।
नक्षत्रमण्डलगतो नमतां प्रियकारकः ॥ ८५॥
नित्यार्चितपदाम्भोजो निजाज्ञा परिपालकः ।
नवग्रहवरो नीलवपुर्नळकरार्चितः ॥ ८६॥
नळप्रियानन्दितश्च नळक्षेत्रनिवासकः ।
नळपाक प्रियश्चैव नळपद्भञ्जनक्षमः ॥ ८७॥
नळसर्वार्तिहारी च नळेनात्मार्थपूजितः ।
निपाटवीनिवासश्च नळाभीष्टवरप्रदः ॥ ८८॥
नळतीर्थसकृत् स्नान सर्वपीडानिवारकः ।
नळेशदर्शनस्याशु साम्राज्यपदवीप्रदः ॥ ८९॥
नक्षत्रराश्यधिपश्च नीलध्वजविराजितः ।
नित्ययोगरतश्चैव नवरत्नविभूषितः ॥ ९०॥
नवधा भज्यदेहश्च नवीकृतजगत्त्रयः ।
नवग्रहाधिपश्चैव नवाक्षरजपप्रियः ॥ ९१॥
नवात्मा नवचक्रात्मा नवतत्त्वाधिपस्तथा ।
नवोदन प्रियश्चैव नवधान्यप्रियस्तथा ॥ ९२॥
निष्कण्टको निस्पृहश्च निरपेक्षो निरामयः ।
नागराजार्चितपदो नागराजप्रियङ्करः ॥ ९३॥
नागराजेष्टवरदो नागाभरण भूषितः ।
नागेन्द्रगान निरतो नानाभरणभूषितः ॥ ९४॥
नवमित्र स्वरूपश्च नानाश्चर्यविधायकः ।
नानाद्वीपाधिकर्ता च नानालिपिसमावृतः ॥ ९५॥
नानारूप जगत् स्रष्टा नानारूपजनाश्रयः ।
नानालोकाधिपश्चैव नानाभाषाप्रियस्तथा ॥ ९६॥
Tags:    

Similar News

-->